|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.142. अध्यायः 142
Mahabharata - Vana Parva - Chapter Topics
भीमेन दुर्गमे गमनाक्षमतया युधिष्ठिरनिवारितानां द्रौपद्यादीनां वहनाङ्गीकारः ॥ 1 ॥ पथि कुलिन्दाधिपतिना सुबाहुना पूजितैर्युधिष्ठिरादिभिस्तस्यिन्भृत्यवर्गस्थापनपूर्वकमर्जुनदिदृक्षया गन्धमादनंप्रति प्रस्थानम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
युधिष्ठिर उवाच। 3-142-0x(2231)(21262)
अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च।
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर ॥ 3-142-1(21263)
सन्निवर्तय कौन्तेय क्षुत्पिपासे बलाश्रयात्।
ततो बलं च दाक्ष्यं च संश्रयस्व वृकोदर ॥ 3-142-2(21264)
ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति।
बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति ॥ 3-142-3(21265)
अथवा सहदेवेन धौम्येन च समं विभो।
सूतैः पौरोगवैश्चैव सर्वैश्च परिचारकैः ॥ 3-142-4(21266)
रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि।
सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण ॥ 3-142-5(21267)
त्रयो वयं गमिष्यामो लध्वाहारा यतव्रताः।
अहं च नकुलश्चैव लोमशश्च महातपाः ॥ 3-142-6(21268)
ममागमनमाकाङ्क्षन्ग्गाद्वारे समाहितः।
वसेह द्रौपदीं रक्षन्यावदागमनं मम ॥ 3-142-7(21269)
भीम उवाच। 3-142-8x(2232)
राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत।
व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया ॥ 3-142-8(21270)
तवचाप्यरतिस्तीव्रा वर्तते तमपश्यतः।
गुडाकेशं महात्मानं संग्रामेष्वपलायिनम्।
किं पुनः सहदेवं च मां च कृष्णां च भारत ॥ 3-142-9(21271)
द्विजाः कामं निवर्तन्तां सर्वे च परिचारकाः।
सूताः पौरोगवाश्चैव यं च मन्येत नो भवान् ॥ 3-142-10(21272)
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित्।
शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विपमेषु च ॥ 3-142-11(21273)
इयं चापि महाभागा राजपुत्री पतिव्रता।
त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ॥ 3-142-12(21274)
तथैवसहदेवोऽयं सततं त्वामनुव्रतः।
न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै ॥ 3-142-13(21275)
अपिचात्र महाराज सव्यसाचिदिदृक्षया।
सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ॥ 3-142-14(21276)
यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः।
पद्भिरेव गमिष्यामो मा राजन्विमना भव ॥ 3-142-15(21277)
अहं वहिष्ये पाञ्चालीं यत्रयत्र न शक्ष्यति।
इति मे वर्तते बुद्धिर्मा राजन्विमना भव ॥ 3-142-16(21278)
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ।
दुर्गे संतारयिष्यामि यत्राशक्तौ भविष्यतः ॥ 3-142-17(21279)
युधिष्ठिर उवाच। 3-142-18x(2233)
एवं ते भाषमाणस्य बलं भीमाभिवर्धताम्।
यत्त्वमुत्सहसे वोढुं पाञ्चालीं विपुलेऽध्वनि ॥ 3-142-18(21280)
यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते।
बलं तव यशश्चैवधर्मः कीर्तिश्च वर्धताम् ॥ 3-142-19(21281)
यत्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया।
मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः ॥ 3-142-20(21282)
वैशम्पायन उवाच। 3-142-21x(2234)
ततः कृष्णाऽब्रवीद्वाक्यं प्रहसन्ती मनोरमा।
गमिष्यामि न संताप कार्यो मां प्रति भारत ॥ 3-142-21(21283)
लोमश उवाच। 3-142-22x(2235)
तपसा शक्यते गन्तुं पर्वतो गन्धमादनः।
तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् ॥ 3-142-22(21284)
नकुलः सहदेवश्च भीमसेनश् पार्थिव।
अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् ॥ 3-142-23(21285)
वैशम्पायन उवाच। 3-142-24x(2236)
एवं संभाषमाणास्ते सुबाहुविषयं महत्।
ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् ॥ 3-142-24(21286)
किराततङ्गणाकीर्णं पुलिन्दशतसंकुलम्।
हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम्।
सुबाहुश्चापि तान्दृष्ट्वा पूजयाप्रत्यगृह्णत ॥ 3-142-25(21287)
विषयान्ते कुलिन्दानामीश्वरः प्रीतिपूर्वकम्।
तत्र ते पूजितास्तेन सर्व एव सुखोपिताः ॥ 3-142-26(21288)
प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति।
इन्द्रसेनमुखांश्चापि भृत्यान्पौरोगवांस्तथा ॥ 3-142-27(21289)
सूदांश्च पारिबर्हांश्च द्रौपद्याः सर्वशो नृप।
राज्ञः कुलिन्दाधिपतेः परिदाय महारथाः ॥ 3-142-28(21290)
पद्भिरेव महावीर्या ययुः कौरवनन्दनाः।
ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः।
तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम् ॥ 3-142-29(21291)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-142-28 परिदाय रक्षार्थं समर्प्य ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|